chap_11 chapter10.html chapter11.html chapter12.html TIRUKKUṞAḶ An Abridgement of Śāstras R. Nagaswamy 11. Sunīti Kusumamālā — Chakrapani Aiyyar धर्मः १. ॥ ईश्वरस्तुतिः ॥
Contents | Chapter10 | Chapter12.1 | Home

अकारादीनि सर्वासां वर्णानां अक्षराणि वै । य ईशः सर्वभूताद्यः तदादीदं जगत्किल ॥ १ ॥ तत्वज्ञानविशिष्टात्मभुवः पुण्याङ्घ्रिसेवनम् । न कुर्याद्यो वृथा तस्य सर्वविद्यापरिश्रमः ॥ २ ॥ हृदब्जवासिनः पादं महीयांसं नमन्ति ये । लोकोत्तमे चिरं वासं प्राप्नुयुस्ते न संशयः ॥ ३ ॥ इच्छानिच्छे न विद्यते यस्येत्याहुर्मनीषिणः । तदङ्गघ्रिस्पृङ्मनुष्यादि न शोचन्ति कदाचन ॥ ४ ॥ य ईशं स्तोतुं इच्छन्ति श्रद्धाभक्तिसमन्विताः । अविद्यावासनासक्त सदसत्कर्मबाह्यकाः ॥ ५ ॥ पञ्चेन्द्रियाध्वनां पञ्चरागाणां द्वेष्टुरुत्तमम् । पारमार्थिक मार्गस्थाः शाश्वतं पदमाप्नुयुः ॥ ६ ॥ अद्वितीयाप्रमेयस्य पादनम्रपरैर्विना । इतरैर्नहि शक्यन्त अधरीकर्तुमाधयः ॥ ७ ॥ कृपानिधेः पादनौकां श्रिता ये तान्विना भुवि । अगम्यं पारमन्येषां अर्थकाम महोदधेः ॥ ८॥ विकलानीन्द्रियाणीव मूर्धानस्ते निरर्थकाः । अङ्घ्रीयेऽष्टगुणेशस्य न नमेयुस्सदा भुवि ॥ ९॥ जगदीशाङ्घ्रिनावं ये भजन्ते मानवा इह । तरन्ति तरसैवैते नान्ये संसारसागरम् ॥ १० ॥
Contents | Chapter10 | Chapter12.1 | Home